Department of Sanskrit
Year of Establishment : 2007
Head of the Department : Prof. Dr. K. M. Trivedi
कच्छ-विश्वविद्यालयस्य संस्कृतविभाग: विद्यार्थिभ्य: अनुस्नातकत: विद्यावारिधिपर्यन्तम् उच्चशिक्षायै अवसरं प्रददाति । वयं छात्रान् ज्ञानं परिवेषितुं तत: प्राचीनार्वाचीनविधयो: समन्वयात्मकं संशोधनं च विदधातुं लक्ष्यं धारयाम: । संस्कृतस्य मूलसाहित्येन सह तौलनिकाभ्यासेन भाषाविज्ञानं, संस्कृते पारेसमुद्रं रचितं साहित्यं, नारीविमर्श:, पाण्डुलिपिविज्ञानं, संस्कृतिभाषयोश्चाभ्यास: पद्धति/शैली-आदीनां तुलना विधीयते । संस्कृतविभाग: 2007 त: अद्यावधि नैरन्तर्येण स्वस्थं, रचनात्मकं च वातावरणं निर्माय कार्यं करोति, छात्रान् प्रेरयति ।
वयं प्रत्येकं छात्रं वैयक्तिकतया अधिगम्य तस्मिन् विद्यमानान् गुणान् समाकलय्य ते ‘अर्थकरीं विद्यां’ प्राप्य समाजे उत्कृष्टां पदवीं प्राप्नुयु: तथा जीवनलक्ष्यं निश्चिनुयु: तदर्थं प्रश्नान् कर्तुं तान् प्रेरयाम: येन छात्रेषु विद्यमाना तर्कशक्ति: समाजे शिक्षा, अधिगम:, संशोधनादि विधानां नूतनतत्त्वानां सङ्कलनम्, नवीननिर्माणं च सर्वोत्कृष्टतया भवेदिति प्रेप्सामहे ।